Pandit shivam shastri

  • Home
  • Pandit shivam shastri

Pandit shivam shastri Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pandit shivam shastri, Event Planner, .

03/03/2024

Jai shree ram

जीवन का आरंभ ही उलझनों से होता है हर हर महादेव
22/02/2024

जीवन का आरंभ ही उलझनों से होता है
हर हर महादेव

23/09/2023
06/06/2023

💐श्रीनन्दनन्दन स्तोत्र💐
बालं नवीन शतपत्र विशालनेत्रं बिम्बाधरं सजल मेघरुचिं मनोज्ञम् ।
मन्दस्मितं मधुर सुन्दरमन्दयानं श्रीनन्दनन्दनमहं मनसा नमामि ॥१॥
मञ्जीरनूपुररणन्नवरत्नकाञ्ची श्रीहार केसरिनखप्रतियंत्र संघम् ।
दृष्टयार्तिहारिमषिबिन्दुविराजमानं वन्दे कलिन्दतनुजा तटबाल केलिम् ॥२॥
पुर्णेन्दुसुन्दरमुखोपरि कुञ्चिताग्रा: केशा नवीनघननीलनिभा स्फुरन्ति ।
राजन्त आनतशिर: कुमुदस्य यस्य नन्दामत्मजाय सबलाय नमो नमस्ते ॥३॥
श्रीनन्दनन्दस्तोत्रं प्रातरुत्थाय य: पठेत् ।
तत्रेत्रगोचरं याति सानन्दं नन्दनन्दन: ॥४॥

ये सब वही थीं, जिनको भ्रम था मेरा वाला ऐसा नहीं है,पट्टी हटा दो आंखों से और जान लो सबका वाला वैसा ही है।
02/06/2023

ये सब वही थीं, जिनको भ्रम था मेरा वाला ऐसा नहीं है,
पट्टी हटा दो आंखों से और जान लो सबका वाला वैसा ही है।

08/05/2023

राम नाम का मतलब क्या होता है?

राम शब्द संस्कृत के दो धातुओं, रम् और घम से बना है। रम् का अर्थ है रमना या निहित होना और घम का अर्थ है ब्रह्मांड का खाली स्थान। इस प्रकार राम का अर्थ सकल ब्रह्मांड में निहित या रमा हुआ तत्व यानी चराचर में विराजमान स्वयं ब्रह्म।

08/05/2023

श्री राम जी का असली नाम क्या है?
रामायण के राम जी का असली नाम राम ही है। उन्हें दशरथनन्दन, कोदंडधारी, रघु, राघव, सियापति, अयोध्यापति, अवधेश ऐसे कई नामों से भी जाना जाता है। जो रामानंद सागर साहब की रामायण है उसमे जिस व्यक्ति ने श्रीराम की भूमिका निभाई है उनका नाम है अरुण गोविल। रामायण के राम जी का असली नाम तो श्री रामचन्द्र ही है।

08/05/2023

राम की बेटी का क्या नाम था?
अयोध्या नरेश दशरथ की तीन पत्नियों कौशल्या, सुमित्रा और कैकेयी में से कौशल्या ने श्री राम को जन्म देने से पहले एक पुत्री को जन्म दिया था जिसका नाम शांता था। वह अत्यंत सुन्दर और सुशील कन्या थी। इसके अलावा वह वेद, कला तथा शिल्प में पारंगत थीं।

02/05/2023

श्रीगणेश ध्यानम्-
वंवंवं विघ्नराजं भजतिनिजभुजे दक्षिणेन्यस्तशुण्डं।
क्रंक्रंक्रं क्रोधमुद्रा दलित रिपुबलं कल्पवृक्षस्य मूले।
दंददं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यं ।
धंधंधं धारयन्तं धनदमतिधियं सिद्धिवुद्धि द्वितीयम्।
श्रीकृष्ण व विष्णु ध्यानम्-
वंशीविभूषितकरान् नवनीरदाभात्,
पीताम्बरादरुणबिम्बफलाधरोष्ठात्।
पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्,
कृष्णातापरंकिमपितत्वमहं नजाने। करारविन्देनपदारविन्दं मुखारविन्दे विनिवेशयन्तम्।
वटस्यपत्रस्य पुटे शयानं बालंमुकुन्दं मनसा स्मरामि।
योन्तःप्रविश्य ममवाचमिमांप्रसुप्तां
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना।
अन्यांश्चहस्तचरण श्रवण त्वगादीन्
प्राणान्नमोभगवते पुरुषाय तुभ्यम्।
सशंखचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम्।
सहारवक्षःस्थल कौस्तुभश्रियं
नमामिविष्णुं शिरसा चतुर्भुजम्।
मेघश्यामं पीतकौशेयवासं
श्रीवत्सांकं कौस्तुभोद्भासिताङ्गम्।
पुण्योपेतं पुण्डरीकायताक्ष्यं
विष्णुंवन्दे सर्वलोकैकनाथम्।
आदौरामतपोवनादिगमनंहत्वामृगंकाञ्चनम्
वैदेहीहरणं जटायुमरणंसुग्रीवसम्भाषणम्।
वालीर्निदलनं समुद्रतरणंलंकापुरीदाहनं
पश्चात् रावणकुम्भकर्णहननं चैतद्धिरामायणम्।
आदौदेवकि देवगर्भजननं गोपीगृहेवर्धनं
मायापूतनि जीवितापहरणं गोवर्द्धनोद्धारणम्।
कंसच्छेदन कोरवादिहननं कुन्तीसुतापालनं
एतद्भागवतं पुराण कथितं श्रीकृष्णलीलामृतम्।
आदर्षपाण्डव धार्तराष्ट्रजननं लाक्षागृहेदाहनं
द्यूते श्रीहरणं वनेविचरणं मत्स्यालये वर्तनम्।
लीलागोग्रहणं रणेविहरणं सन्धिक्रिया जृम्भणं
पश्चाद्भीष्मसुयोधनादि हननं चैतन्महाभारतम्।
श्रीगणेशध्यानम्-
ॐकारसंनिभमिभाननमिन्दुभालं
मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम्।
लम्बोदरं कलचतुर्भुजमादिदेवं
ध्यायेन्महागणपतिंमतिसिद्धिकान्तम्।
श्रीसूर्यध्यानम्
ध्येयःसदासवितृमण्डलमध्यबर्ती
नारायण:सरसिजासनसंनिविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारीहिरण्मयवपुर्धृतशंखचक्रः।
श्रीरामध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतंवासोवसानं नवकमलदलस्पर्चिनेत्रं प्रसन्नम्।
वामाङ्कारूढ़सीतामुखकमलमिलल्लोचनंनीरदाभं
नानालंकारदीप्तं दधतमुरुजटामण्डलंरामचन्द्रम्।
नीलाम्भोधकान्तिकान्तमनिशं वीरासनाध्यासिनं
मुद्रांज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि।
सीतांपार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तीं मुकुटाङ्गदादिविविधा कल्पोज्जलांगं भजे।
शिखिमुकुटविशेषंनीलपद्माङ्गदेशं
विधुमुखकृतकेशं कौस्तुभापीतवेशम्।
मधुररवकलेशंशंभजेभ्रातृशेषं
व्रजजनवनितेशं माधवं राधिकेशम्।
कस्तूरीतिलकं ललाटपटले वक्ष:स्थलेकौस्तुभं
नासाग्रेवरमौक्तिकं करतलेवेणुःकरे कंकणम्।
सर्वाङ्गेहरिचन्दनं सुललितं कण्ठेचमुक्तावली
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः।
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्सांकमुदारकौस्तुभधरं पीताम्बरंसुन्दरम्।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं
गोविन्दंकलवेणुवादनपरं दिव्यांगभूषंभजे। अस्तिस्वस्तरुणीकराग्रविगलत् कल्पप्रसूनाप्लुतं
वस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम्।
स्रस्तस्रस्तनिबद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति। स्वभावतोपास्तसमस्तदोषमशेषकल्याणगुणैकराशिम्।
व्यूहाङ्गिनं ब्रह्मपरंवरेण्यंध्यायेम कृष्णंकमलेक्षणंहरिम्।
अंगेतुवामे वृषभानुजांमुदाविराजमानामनुरूपसौभगाम्।
सखीसहस्रै:परिसेवितांसदास्मरेमदेवीं सकलेष्टकामदम्। श्रीगायत्रीध्यानम्-
रक्तश्वेतहिरण्यनीलधवलैर्युक्तांत्रिनेत्रोज्वलां
रक्तांरक्तनवस्त्रजं मणिगणैर्युक्तां कुमारीमिमाम्।
गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां
पद्माक्षीं चवरस्रजं च दधतीं हंसाधिरूढांभजे।
लक्ष्मीनृसिंहध्यानम्-
श्रीमत्पयोनिधिनिकेतनचक्रपाणे
भोगीन्द्रभोगमणिरञ्जितपुण्यमूर्ते।
योगीश शाश्वतशरण्यभवाब्धिपोत
लक्ष्मीनृसिंह ममदेहि करावलम्बम्।
श्रीगंगाध्यानम्-
साक्षाद् धर्मद्रवौघंमुररिपुचरणाम्भोजपीयूषसारं
दुःखस्वाब्धेस्तरित्रंसुरदनुजनुतं स्वर्गसोपानमार्गम्।
सर्वांहोहारि वारि प्रवरगुणगणं भासियासंवहन्ती
तस्यैभागीरथि श्रीमतिमुदितमनादेविकुर्वे नमस्ते।
श्रीयमुना ध्यानम्-
ॐश्यामामम्भोजनेत्रां सघनघनरुचिं रत्नमंजीरकूजत्
काञ्चीकेयूरयुक्तां कनकमणिमये विभ्रतीं कुण्डलेद्वे।
भ्राजच्छ्रीनीलवस्त्रांस्फुरदमलचलद्धारभारां मनोज्ञां
ध्यायेन्मार्तण्डपुत्रीं तनुकिरणचयोद्दीप्तदीपाभिरामाम्।
श्रीलक्ष्मीध्यानम्-
भूयाद्भूयोद्विपद्माभयवरदकरा तप्तकार्तस्वराभा
शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भासिच्यमाना।
रक्तौघावद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या
पद्माक्षी पद्मनाभोरसिकृतवसतिः पद्मगाश्रीःश्रियै नः। सिन्दूराभां त्रिनेत्राममृतशशिकलांखेचरींरक्तवस्त्रां
पीनोत्तुङ्गोस्तन्राढ्यामभिनवविलसद्यौवनारम्भरम्याम्।
नानालंकारयुक्तांसरसिजनयनामिन्दुसंक्रान्तमूर्तिं
देवीं पाशाङ्कुशाढ्यामभयवरकरामन्नपूर्णां नमामि। आदायदक्षिणकरेण सुवर्णदर्वी
दुग्धान्नपूर्णमितरेण चरत्नपात्रम्।
भिक्षान्नदाननिरतां नवहेमवर्णा
मम्बांभजे सकलभूषणभूषिताङ्गीम्।श्रीसीताध्यानम्-
सकलकुशलदात्रीं भक्तिमुक्तिप्रदात्रीं
त्रिभुवनजनयित्रीं दुष्टधीनाशयित्रीम्।
जनकधरणिपुत्रीं दर्पिदर्पप्रहर्त्रीं
हरिहरविधिकर्त्रीं नौमि सद्भक्तभर्त्रीम्।
श्रीराधिकाध्यानम्-
हेमाभां द्विभुजांवराभयकरांनीलाम्बरेणावृतां
श्यामक्रोडविलासिनींभगवतीं सिन्दूरपुञ्नोज्ज्वलाम्।
लोलाक्षीं नवयौवनांस्मितमुखीं विम्बाधरां राधिकां
नित्यानन्दमयीं विलासनिलयां दिव्यांगभूषांभजे।
अम्बेमाता ध्यानम्
सिन्दूरारुणविग्रहांत्रिनयनांमाणिक्यमौलिस्फुरत्
लारानायकशेखरांस्मितमुखीमापीनवक्षोरुहाम्।
पाणिभ्यामलिपूर्णरत्नचषकंरक्तोत्पलंविभ्रतीं
सौम्यांरत्नघटस्थरक्तचरणांध्यायेत्परामम्बिकाम्।
श्रीगणपतिध्यानम्
खर्वंस्थूलतनुंगजेन्द्रवदनंलम्बोदरंसुन्दरं
प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम्।
दन्ताघातविदारितारिरुधिरैःसिन्दूरशोभाकरं
वन्देशैलसुतासुतंगणपतिंसिद्धिप्रदंकामदम्।
श्रीसरस्वतीध्यानम्
याकुन्देन्दुतुषारहारधवलाया शुभ्रवस्त्रावृता
यावीणावरदण्डमण्डितकरायाश्वेतपद्मासना।
याब्रह्माच्युतशंकरप्रभृतिभिर्देवैःसदावन्दिता
सामांपातुसरस्वतीभगवतीनिःशेषजाड्यापहा।।
श्रीकालभैरवध्यानम्
करकलितकपाल:कुण्डलीदण्डपाणिः
तरुणतिमिरनीलःव्यालयज्ञोपवीती।
क्रतुसमयसपर्य्या विघ्नविषच्छेदहेतुः
जयतिवटुकनाथःसिद्धिदःसाधकानाम्।
गौरीध्यानम्
मुखेतेताम्बूलं नयनयुगलेकज्जलकला
ललाटेकाश्मीरंविलसतिगलेमौक्क्तिकलता।
स्फुरत्काञ्चीशाटीपृथुकटितटे हाटकमयी
भजामित्वांगौरीनगपतिकिशोरीमविरतम्।
श्रीरामध्यानम्
नीलाम्बुजस्यामलकोमलांगं सीतासमारोपितवामभागम्।
पाणौमहासायकचारुचापंनमामिरामंरघुवंशनाथम्।
श्रीशिवध्यानम्
वन्देदेवउमापतिंसुरगुरुंवन्देजगत्कारणम्
वन्देपन्नगभूषणंमृगधरंवन्देपशूनांपतिम्।
वन्देसूर्यशशांकवन्हिनयनंवन्देमुकुन्दप्रियम्।
वन्देभक्तजनाश्रयं च वरदंबन्दे शिवं शंकरम्।
श्रीगणेशध्यानम्
यंब्रह्मवेदान्तविदुःवदन्तिपरंप्रधानंपुरुषंतथान्ये।
विश्वोद्गतंकारणमीश्वरंवातस्मैनमोविघ्नविनाशनाय।
गुरुप्रार्थना
ध्येयंसदापरिभवघ्नमभीष्टदोहं
तीर्थास्पदंशिवविरंचिनुतंशरण्यम्।
भृत्यार्तिहंप्रणतपालभवाब्धिपोतं वन्देमहापुरुषतेचरणारविन्दम्।
त्यक्त्वासुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्मिष्ठआर्यवचसायदगादरण्यम्।
मायामृगंदयितयेत्सितमन्वधावन्
वन्देमहापुरुषते चरणारविन्दम्।।सरस्वतीध्यानम्
शुभ्रांशुभ्रसरोजमुग्धवदनांशुभ्रांवरालंकृता
शुभ्रांगीशुभशुभ्रहास्यविशदांशुभ्रस्रगाशोभिनीम्।
शुम्रोद्दामललामधाममहिमांशुभ्रान्तरङ्गागताम्।
शुभ्राभां भयहारिभावभरितांश्रीभारतींभावये।
शुक्लांब्रह्मविचारसारपरमामाद्यांजगद्व्यापिनीम्
वीणापुस्तकधारिणीमभयदांजाङ्यान्धकारापहाम्
हस्तेस्फाटिकमालिकांविदधतींपद्मासनेसंस्थिताम्
वन्देतांपरमेश्वरींभगवतींबुद्धिप्रदांशारदाम्।श्रीरामध्यानम्
रामोराजमणिःसदाविजयतेरामंरमेशंभजे
रामेणाभिहतानिशाचरचमूरामायतस्मैनमः
रामान्नास्तिपरायणंपरतरंरामस्यदासोस्म्यहम्
रामेचित्तलयःसदाभवतुमेभोराम!मामुद्धर। गायत्री ध्यानम्
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै
मुक्तामिन्दुनिवद्धरत्नमुकुटांतत्वात्मवर्णात्मिकाम्।
सावित्रींवरदाभयांकुशकशा:शुभ्रंकपालंगुणम्।
शंखंचक्रमथारविन्दयुगलं हस्तैर्वहन्तिंभजे।
श्री शिवध्यानम्
असितगिरिसमंस्यात्कज्जलंसिन्धुपात्रे
सुरतरुवरशाखालेखनीपत्रमुर्वी।
लिखतियदिगृहीत्वाशारदासर्वकालं
तदपितवगुणानामीशपारंनयाति।
श्रीविष्णुध्यानम्
मेघानादघटाघटाघटघटा घाटाघटाघुंघटा
मण्डूकस्य वकोवकवको वाकीवकोवूवको
विद्युत्ज्योतिचकीचकीचकमकीचाकीमकीदृश्यते
डत्थंनन्दसुतोपिगोपवनिता वाचस्पतिःपातुवः।
व्रजेवसन्तं नवनीतचौरंश्रीराधिकायाःहृदयस्यचौरम्
अनेकजन्मार्जितपापचौरं चौराग्रगण्यंपुरुषंनमामि। श्रीगोवर्धननाथपादयुगलंहैयंगवेणुप्रियम्।
नित्यंश्रीमधुराधिकंसुखकरंश्रीविठ्ठलेशंमुदा।
श्रीमद्द्वारवतेशगोकुलपतीश्रीगोकुलेन्दुंविभुम्।
श्रीमन्मन्मथमोहनंनटवरंश्रीबालकृष्णंभजे। मन्दारमूलेमदनाभिरामं
विम्बाधरेपूरितवेणुनादम्।
गोगोपगोपीजनमध्यसंस्थं गोपंभजेगोकुलपूर्णचन्द्रम्।
श्रीशिवध्यानम् गवीशपत्रंनगजातिहारिकुमारतातःशशिखण्डधारी।
लंकेशपूजितपादपद्मंपायादनादिपरमेश्वरोवः।
यावत्तोयधरा धराधरधरा धाराधराभूधरा।
यावत्चारुसुचारुचारु चमरंचामीकरंचामरम्।
यावद्रावणरामरामरमणं रामायणेश्रूयताम्।
तावत्भोगविभोग भोगमतुलं योगायते नित्यस:।
सिंहादुत्थायकोपात् धधडधडधडद् धावमाना भवानीम्।
शत्रूणांशस्त्रपाते ततडतडतडद् त्रोटयन्ती पिशाचीम्।
तेषांरक्तंपिवन्ती घुघुटघुटघुटद् घोटयन्ती शिरांसि।
तृप्तांतृप्तांतर्पयन्तीम्खखदखदखदद् भैरवीनःपुनातु।
उद्यद् विद्युतिनिझटझटितझटा झाटनादास्फटानम्।
अन्यान्यं द्रष्टद्रष्टा रडरडनरडो डम्बरूडम्बराढ्या।
झमझमझम झंकझंका झिमित झिमिझिमा झंक झंकार घोरा।
कायध्वंकालकालःककितकिलिकिला चक्रहस्तो नृसिंहः।
ब्रह्माण्डंदारुदण्डं दरपिटदरडं दर्पदण्डानृदण्डम्।
डिम्फिर्डिम्फिर्डिडिम्फिर्डहमसिडहसा डम्बरुडम्बराढ़्या।
तुल्यंतुल्यंवितुल्यं कमकमकुंकुमंलेपिताङ्गंशुभाङ्गम्।
एतद्वेपुण्यतीर्थेप्रघटघटरवो पातुनो नारसिंहः।
भूखण्डं वारणाण्डं परवरविरटं डम्पडम्पोरुडम्पं,
डिंडिंडिंडिं डिडिम्बं दहमपि दहमै: झम्फझम्फैश्चझम्फै:।
तुल्यास्तुल्यास्तुतुल्या: धुमधुम धुमकैः कुंकुमांकैः कुमांकैः।
एतत्ते पूर्णयुक्त महरह करह: पातुमां नारसिंहः।
भूभुभूभृ भुजंगं प्रलय रववरं प्रज्वलज्द्वालमालं ,
खर्जर्जं खर्जदुर्जं खिचखच खचित खर्जदुर्ज जयन्तम्।
भूभागं भोगभागं गगगग गगनं गर्दमर्त्यु र्ग्रगण्डं,
स्वच्छंपुच्छं स्वगच्छं स्वजन जननुतः पातुमांनारसिंहः।
एनाभ्रंगर्जमानं लघुलघुमकरो बालचन्द्रार्कदंष्ट्रो,
हेमाम्भोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः।
दन्तानां वाधमानांखगटख खटवो भोजजानुःसुरेन्द्रो,
निष्प्रत्युहं सराजा गहगह गहतःपातुमां नारसिंहः।
शंखंचक्रं चचापं परशुम शमिषुं शूलपाशाङ्कुशास्त्रं,
विभ्रन्तं वज्रखेटं हलमुसलगदा कुन्तमत्युग्र दंष्ट्रम्।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं,
वन्देप्रत्येकरूपं परपदनिवसः पातुमांनारसिंहः।
पादद्वन्द्वं धरित्री कटिविपुलतरो मेरुमध्यूत्वमृरुं,
नाभिं ब्रह्माण्डसिन्धुः हृदयमपिभवो भूतविद्वत्समेतः.।
दुश्चक्राकं स्ववाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रं,
वक्त्रंवन्हि: सुविद्युत् सुरगणविजयः पातुमां नारसिंहः।
नासाग्रं पीनगण्डं परवलमथनं वद्धकेयूरहारं,
रौद्रंदंष्ट्रा करालं अमितगुणगणं कोटिसूर्याग्निनेत्रम्।
गाम्भीर्यं पिंगलाक्षं भ्रुकुटित विमुखं षोडशार्धार्धवाहुं,
वन्देभीमाट्टहासं त्रिभुवन विजय: पातुमां नारसिंहः।
केके नृसिंहाष्टके नखरसदृशं देवभीत्वं गृहीत्वा,
देवेन्द्यो विप्रदण्डं प्रतिवचनपया याम्यन प्रत्यनैषीः।
शापंचापं चखड्गं प्रहसितवदनं चक्रचक्री चकेन,
ओमित्ये दैत्यनादं प्रकचवि विदुषा पातुमांनारसिंहः।
झंझंझंझं झकारं झषझष झषितं जानुदेषं झकारं,
हुंहुहुंहुं हकारं हरित कहहसा यंदिशे वं वकारम्।
वंवंवंवं वकारं वदन दलिततं वामपक्षं सुपक्षं,
लंलंलंलं लकारं लघुवणविजयः पातुमां नारसिंहः।
भूतप्रेत पिशाच यक्षगणशः देशान्तरोच्चाटना,
चोरव्याधि महज्वरंभयहरं शत्रुक्षयं निश्चयम्।
सन्ध्याकाले जपतमिष्टकमिदं सभक्ति पूर्वादिभिः,
प्रह्ल्लादेव वरोवरस्तुजयितासत्पूजितां भूतये। ब्रह्माण्डं छत्रदण्डं शतधृतिभवनंभोरुहा नालदण्डम्,
क्षौणीनौ कूपदण्डं क्षरदमरसरित् पट्टिकाकेतुदण्डम्।
ज्जोतिष्चक्राक्षदण्डं त्रिभुवनविजयस्तम्भदण्डाघ्रिदण्डम्,
श्रेयस्ते विक्रमस्ते वितरतुविवुधः द्वेषिणांकालदण्डः।
वालमुकुन्द-मन्देहसन्तं प्रभयालसन्तं जनस्यचित्तंसततंहरन्तम्।
वेणुंनितान्तं मधुवादयन्तं वालंमुकुन्दं मनसास्मरामि।
श्रीसर्वतोभद्रकमण्डलेस्मिन् ब्रह्मादिदेवा निजबोधरूपान्।
सुरप्रधानान् निगमप्रसिद्धान् ध्यायेधुनाहं परमंप्रकाशान्।
वास्तुध्यान-यस्यदेशेस्थितोक्षौणी ब्रह्माण्डं विश्वमंगलम्।
व्यापिनंभीमरूपश्च सुरूपं न्धिरूपिणम्।
पितामहसुतंमुख्यं वन्देवास्तोष्पते प्रभुम्।
वास्तुपुरुषदेवेश सर्वविध्न हरोभव।
दीर्घपी वरदोर्दण्डःकम्बुग्रीवोरुणेक्षणः।
श्यामलस्तरुणःस्रग्वीसर्वाभरणभूषितः।
पीतवासा महोरस्कःसुमृष्ट मणिकुण्डलः।
स्निग्धकुञ्चित केशान्तः सुभग:सिंहविक्रमः।
अमृतापुर्णकलशंविभ्रद्वलयभूषितः।
सवैभगवतःसाक्षाद् विष्णोरंशाश सम्भवः।
धन्वन्तरिरितिख्यातआयुर्वेद दृगिज्यभाक्।(भागवत अष्टमस्कन्ध 32श्लोक)
अहंहिधन्वन्तरीमादिदेवो जरारुजामृत्युहरोनराणाम्।
शल्यांगमंगैरपरैरुपेतं प्राप्तोस्मिगांभुयइहोपदेष्टुम्।
नमामिधन्वन्तरिमादिदेवं सुरासुरैर्वन्दितपादपद्मम्।
लोकेजरारुग्भयनाशहेतुं दातारमीशंसकलौषधीनाम्। शिवध्यान-नग्नोनिःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रेन्यस्तदृष्टिर्विदितभवगुणो नैवदृष्ट:कदाचित्।
उन्मयावस्थयात्वां विगतकलिमलं शंकरंनस्मरामि।
क्षन्तव्योमेपराधःशिवशिवशिवभो:श्रीमहादेवशम्भो।
चन्द्रोद्भासितशेखरेस्मरहरे गंगाधरेशंकरे
सर्पैर्भूषित कण्ठकर्णविवरेनेत्रोत्थवैश्वानरे।
दन्तित्वकृत सुन्दराम्वरधरे त्रैलोक्यसारेहरे
मोक्षार्थं कुरुचित्तवृत्तिमखिलामनैस्तु किंकर्मभिः।
किंवानेन धनेन वाजिकरिभि: प्राप्तेनराज्येनकिं
किंवापुत्रकलत्रमित्र पशुभिर्देहेन गेहेनकिं।
ज्ञातैतत् क्षणभंगुरं सपदिरे त्याज्यंमनोदूरतः,
स्मातार्थं गुरुवाक्यतो भजभज श्रीपार्वतीवल्लभम्।
करचरणकृतंवा कायजंकर्मजंवा
श्रवणनयनजंवा मानसंवा पराधम्।
विहितमविहितंवा सर्वमेतत्क्षमस्व,जयजयकरुणाब्धे श्रीमहादेवशम्भो।
आयुर्नश्यति पश्यतां प्रतिदिन यातिक्षयंयौवनम्।
प्रत्यायान्तिगताःपुर्ननदिवसाः कालोजगत्भक्षकः।
लक्ष्मीस्तोय तरंग भंग चपला विद्युच्चलं जीवितं।
तस्मात् मां शरणागतं शरणद त्वं रक्षरक्षाधुना।
गौरिप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकंकणाय।
गंगाधराय गजराज विमर्दनाय दारिद्रदुःखदहनाय नमःशिवाय। कण्ठेयस्यलसत्करालगरलं गंगाजलंमस्तके
वामांगोगिरिराजराजनया जायाभवानीसती।
नन्दिस्कन्दगणाधिराज सहिता श्रीविश्वनाथप्रभुः
काशीमन्दिरसंस्थितोखिलगुरुर्देयात्सदामंगलम्।
आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर,
ज्योतिःस्फाटिकलिंगमौलिविलसत्पूर्णेन्दुवान्तामृतैः।
अस्तोकाप्लुतमेकमीशमनिशंरुद्रानुवाकान्जपन्
ध्यायेदीप्सितसिद्धयेध्रुवपदंविप्रोभिषिंचेच्छिवम्।
ब्रह्माण्डव्याप्तदेहाभषितहिमरुचाभासमानाभुजंगै:।
कण्ठेकालाःकपर्दाकलितशशिकलाश्चण्डकोदण्डहस्ताः।
त्र्यक्षारुद्राक्षमालाःप्रकटितविभवाःशाम्भवामूर्तिभेदा।
रुद्राःश्रीरुद्रसूक्तप्रकटितविभवानःप्रयच्छन्तुसौख्यम्।
मन्दारमाला कुलितालकायै कपालमालाङ्कितशेखराय
दिव्याम्बरायै च दिगम्बराय नमःशिवायै चनमःशिवाय।
हस्ताम्भोज युगस्थकुम्भयुगलादुधृत्यतोयंशिरः
सिंचंतं करयोर्युगेन दधतं स्वांकेसकुम्भौकरौ
अक्षस्रग्मृगहस्तमम्बुजगतं मूर्द्धस्थ चन्द्रंस्रवत्
पीयूषोत्र तनुंभजेस गिरिजं मृत्युञ्जयं त्र्यम्बकम्।
चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तःस्थितं
मुद्रापाशमृगाक्ष सूत्रविलसत् पाणिंहिमांशुप्रभम्।
कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्वलम्
कान्तंविश्वमोहनं पशुपतिं मृत्युजयं भावयेत्।
सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्ययोनिं निहितञ्चसत्ये।
सत्यस्यसत्यामृत सत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः।
श्रीहनुमत्ध्यानम्
ध्यायेद् बालदिवाकरद्युतिनिभंदेवारिदर्पापहं
देवेन्द्रप्रमुखप्रशस्तयशसंदेदीप्यमानंरुचा।
सुगीवादिसमस्तवानरयुतंसुव्यक्ततत्त्वप्रियं
संरक्तारुण लोचनंपवनजं पीताम्बरालङ्कृतम्।
श्रीमन्तंहनुमन्तमार्तरिपुभिद् भूमृत्तरुभ्राजितं
चाल्पद् बालधिबन्धवैरिनिचयं चामीकराद्रिप्रभम्।
अष्टौरक्तपिशङ्गनेत्रनलिनंभ्रूभंगमंगस्फुरत्
प्रोद्यच्चण्ड मयूखमण्डलमुखंदुःखापहंदुःखिताम्।
कौपीनंकटिसूत्रमौञ्ज्यजिनयुग्देहंविदेहात्मजा
प्राणाधीशपदारविन्दनिरतंस्वान्तंकृतान्तंद्विषाम्।
ध्यात्वैवं समरांगणस्थितमथानीयस्व-हृत्पंकजे
सम्पूज्याखिल पूजनोक्तविधिना सम्प्रार्थयेत् प्रार्थितम्।
सिन्दूरपूररुचिरोबलवीर्यसिन्धु र्बुद्धिप्रभावनिधिरद्भुत वैभवश्रीः
दीनार्तिदावदहनोवरदोवरेण्यःसंकष्टमोचनविभुस्तनुतांशुभंनः
सोत्साहलंघितमहार्णवपौरुषश्रीर्लङ्कापुरीप्रदहनप्रथितप्रभावः
घोराहवप्रमथितारिचमूप्रवीरः
प्राञ्जन्जनिर्जयति मर्कटसार्वभौमः।
बालार्कायुततेजसंत्रिभुवनंप्रक्षोभकंसुन्दरं
सुग्रीवादिसमस्तवानरगणैःसंसेव्यपादाम्बुजम्।
नादेनैवसमस्तराक्षसगणान्संत्राशयन्तंप्रभुम्।
श्रीमद्रामपदाम्बुजस्मृतिरतंध्यायामिवातात्मजम्। उद्यद्भानुसहस्रसन्निभतनु:पीताम्बरालंकृतः
प्रोज्वालानलदीप्यमाननयनोनिष्पिष्टरक्षेगण:
सर्वतोद्यतवारिदोद्भवरवःप्रोच्यैर्गदाविभ्रमः
श्रीमान्मारुतनन्दनःप्रतिदिनंध्येयोद्विपद्भञ्जनः।
वन्देविद्युज्वलनविलसद्ब्रह्मसूत्रैकनिष्ठम्
कर्णद्वन्द्वेकनकरचितेकुण्डलेधारयन्तम्
सत्कौपिनंकपिचरवृतंकामरूपंकपीन्द्रम्
पुत्रंवायोरिनसुतसुखदं वज्रदेहं वरेण्यम्। वज्रांगंपिंगकेशाढ्यंस्वर्णकुण्डलमण्डितम्।
नियुद्धमुपसंक्रम्य पारावारपराक्रमम्।
वामहस्तेगदायुक्तंपाशहस्तंकमण्डलुम्।
ऊर्ध्वदक्षिणदोर्दण्डंहनुमन्तंविचिन्त्यताम्। श्रीविष्णुध्यानम्
क्षीरोदन्वत्प्रदेशेशुचिमणिविलसत्सैकतेमौक्तिकानां
मालाक्लृतासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मूक्तपीयूषर्वर्षैः।
आनदीनःपुनीयादरिनलिनगदाशंखपाणिर्मुकुन्दः।
भूःपादौयस्यनाभिर्वियदसुरनिलश्चन्द्रसूर्यौचनेत्रे।
कर्णावाशाःशिरोद्यौर्मुखमपिदहनोयस्यवास्तेयमब्धिः।
अन्तस्थँयस्यविश्वंसुरनरखगगो भोगिगन्धर्वदैत्यैः।
चित्रंरंरम्यतेतंत्रिभुवनवपुषंविष्णुमीशंनमामि।
छायायांपारिजातस्य हेमसिंहासनोपरि।
आसीनमम्बूदश्याममायताक्षमलंकृतम्।
चन्द्राननंचतुर्बाहुंश्रीवत्साङ्कितवक्षसम्।
रुक्मिणीसत्यभामाभ्यांसहितंकृष्णमाश्रये।श्रीसूर्यध्यानम्
भास्वान्काश्यपगोत्रजारुणरुचिर्यःसिंहराशिश्वरः
षट्त्रिस्थोदशशोभनोगुरुशशीभौमेषुमित्रसदा।
शुक्रोमन्दरिपुकलिंगजनितश्चाग्नीश्वरोदेवते
मध्येवर्तुलपूर्वदिग्दिनकर:कुर्याद्सदामंगलम्।
श्रीचन्द्रध्यानम्
चन्द्रःकर्कटकप्रभुःसितनिभश्चात्रेयगोत्रोद्भव
श्चाग्नेयश्चतुरस्रवारुणमुखश्चापोप्युमाधीश्वरः।
षट्सप्तानिदशैकशोभनफलशौरिःप्रियोर्कोगुरुः
स्वामीयामुनदेशजोहिमकरःकुर्यात्सदामंगलम्।
मंगलध्यानम्
भौमोदक्षिणदिक्त्रिकोणयमदिग्विध्नेश्वरोरक्तभः
स्वामीवृश्चिकमेषयो:सुरगुरुश्चार्क:शशीसौहृदः।
ज्ञोरिःषट्त्रिफलप्रदश्चवसुधास्कन्दौक्रमाद्देवते
भारद्वाजकुलोद्भवःक्षितिसुतःकुर्यात्सदामंगलम्।
श्रीबुधध्यानम्
सौम्योदङ्मुखपीतवर्णमगधश्चात्रेयगोत्रोद्भवो
बाणेशानदिशःसुहृच्छनिभृगुःशत्रु:सदाशीतगुः।
कन्यायुग्मपतिर्दशाष्टचतुरःषट्नेत्रक:शोभनो
विष्णुःपौरुषदेवतेशशिसुतःकुर्यात्सदामंगलम्।
श्रीगुरुध्यानम्
जीवश्चांगिरगोत्रजोत्तरमुखोदीर्घोत्तरासंस्थितः
पीतोश्वत्थसमिद्धसिन्धुजनितश्चापोथमीनाधिपः।
सूर्येन्दुक्षितिजप्रियोबुधसितौशत्रूसमाश्चापरे
सप्ताङ्कद्विभवःशुभःसुरगुरुःकुर्यात्सदामंगलम्।
श्रीशुक्रध्यानम्-
शुक्रोभार्गवगोत्रजःसितनिभःप्राचीमुखःपूर्वदिक्
प्रचांगो वृषभस्तुलाधिपमहाराष्ट्राधिपोदुम्बरः।
इन्द्राणीमघवानुभौबुधशनीमित्रार्कचन्द्रौरिपू
षष्ठोद्विर्दशवर्जितोभृगुसुतःकुर्यात्सदामंगलम्।
श्रीशनिध्यानम्
मन्दःकृष्णनिभस्तुपश्चिममुखःसौराष्ट्रकःकाश्यपः
स्वामीनक्रभकुम्भयोर्बुधसितौमित्रेसमश्चाङ्गिराः।
स्थानंपश्चिमदिक्प्रजापतियमौदेवौधनुष्यासनः
षट्त्रिस्थःशुभकृच्छनीरविसुतःकुर्यात्सदामंगलम्।
श्रीराहुध्यानम्
राहुःसिंहलदेशजश्चनिऋतिःकृष्णाङ्गशूर्पासनो
यःपैठीनसि गोत्रसम्भवसमिद् दूर्वामुखोदक्षिणः।
यःसर्पाद्यधिदैवतेचनिऋतिःप्रत्याधिदेवःसदा
षट्त्रिस्थःशुभकृच्चसिंहिकसुतःकुर्यात्सदामंगलम्।
श्रीकेतुध्यानम्
केतुर्जैमिनिगोत्रज:कुशसमृद् वायव्यकोणेस्थित
श्चित्रांगध्वजलांछनोहिमगुहोयोदक्षिणाशामुखः।
ब्रह्माचैवसचित्रचित्रसहितःप्रत्याधिदेवःसदा
षट्त्रिस्थः शुभकृच्च बर्बरपतिःकुर्यात्सदा मंगलम्।
एकश्लोकी नवग्रह श्लोक
ब्रह्माुमुरारिस्त्रिपुरान्तकारीभानुःशशीभूमिसुतोबुधश्च।
गुरुश्चशुक्र:शनिराहुकेतवः कुर्वन्तुसर्वेमम सुप्रभातम्।
सूर्यःशौर्यमथेन्दुरुच्यपदवींसन्मङ्गलंमंगलः
सद्बुद्धिंचबुधो गुरुश्चगुरुतांशुक्रंसुखंशंशनिः।
राहुर्बाहुबलंकरोतुशततंकेतुःकुलस्योन्नतिः।
नित्यंप्रीतिकराभवन्तुभवतां सर्वेप्रसन्नाग्रहाः।
सूर्यसोमांगारकंच जीवभृग्वर्किराहवः।
केतुरेतेप्रयच्छन्तुममायुर्वरदाग्रहाः।
आदित्यादिनवग्रहाःशुभकरा
मेषादयोराशयो
नक्षत्राणिश्चयोगकाश्चतिथय
स्तेदेवतास्तद्गणाः।
माषाब्दाऋतवस्तथैवदिवसा:
सन्ध्यास्तथारात्रयः।
सर्वेस्थावरजंगमा:प्रतिदिनं
कुर्वन्तुतेमंगलम्।
आदित्यंचविधुंचभूमितनयं
चन्द्रात्मजंसद्गुरुम्।
देवानांतुवृहस्पतिंत्वथभृगुं
दैत्याधिपानांगुरुम्।
छायापुत्रशनिंचवक्रगतिगं राहुंचदैत्याधिपम्।
केतुंसर्वजनार्तिहान्तुनितरां
वन्दे नवैतान् ग्रहान्।
गणाधिपोभानुशशीधरासुतो
बुधोगुरुर्भार्गवसूर्यनन्दनाः।
राहुश्चकेतुश्चपरंनवग्रहाः
कुर्वन्तुव:पूर्णमनोरथंसदा।
क्षेत्रपालध्यानम्
घण्टावाद्यम्वहन्तंचकचकचकितंदर्पकान्तंरयान्तम्।
ऊर्ध्वान्तंदैत्यशत्रुम्डवडवनिनदंडम्बरुदण्डचण्डम्।
विभ्राणंचण्डमुण्डंप्रकटविकटितंशंकरंभीमकायम्।
नित्यंभक्त्यानमामिकिलिकिलितरवंभैरवंक्षेत्रपालम्।
यंयंयंयक्षरूपंदशदिशिविदितंभूमिकम्पायमानं
संसंसंहारमूर्तिं शिरमुकुटजटाशेखरंचन्द्रबिम्बम्
दंदंदंदीर्घकायंविकृतनखमुखंऊर्ध्वरोमंकरालम्
पंपंपंपापनाशंप्रणमतशततंभैरवंक्षेत्रपालम्।
भ्राजश्चन्द्रजटाधरंत्रिनयनंनीलाञ्जनाद्रिप्रभम्।
दोर्दण्डात्तगदाकपायमरुणस्रग्गन्धवस्त्रोज्वलम्।
घण्टामेखलघर्घरध्वनिलसत्झंकारभीमंविभुम्।
बन्देसंहृति सर्पकुण्डलधरं श्रीक्षेत्रपालंसदा।
रंरंरंरक्तवर्णं कटकटिततनुंतीक्ष्णदंष्ट्राकरालम्
घंघंघंघोषघोषं घघघघघटितं घर्घरंघोरनादम्
कंकंकंकालपाशं धृकधृकधृकितंज्वालितंकामदाहम्
तंतंतंदिव्यदेहं प्रणमतशततं भैरवंक्षेत्रपालम्।
कौलीरेचित्रकूटेहिमगिरिविवरेशस्त्रजालान्धकारे
सौराष्ट्रेसिन्धुदेशेमगधपुरवरेकौशलेवाकलिंगे
कर्णाटेकोंकणेवाभृगुसुतनगरेकान्यकुब्जस्थितेवा
सर्वस्माद्सर्वदावाह्यपमृतिभयतःपातुव:क्षेत्रपालः।
श्रीवास्तुध्यानम्
स्वर्णोपवीतेनसुशोभमानंसर्वार्थसिद्धस्तु निनादमेकं
त्रिलोक संचिन्तितपादपद्मम् तंवास्तुराजंसततंनमामि।
शिख्यादिकामे खलुवास्तुदेवागृह्णन्तुपुष्पाञ्जलिमत्रशीघ्रम्
पीडाहराभव्यकराविशाला भवन्तुभूपालन तत्पराश्च।
शशधरसमवर्णंरत्नहारज्वलांगंकनकमुकुटचूडंस्वर्णयज्ञोपवीतम्
अभयवरदहस्तं सर्वलोकैकनाथं तमिहभुवनरूपंवास्तुराजंनमामि।
जानामिनोर्चन विधिपरमंक्षपध्वं लोकार्तिपुञ्जमतुलंक्षपयन्तुनित्यम्।
शिख्यादिका:सुविमलाःसुखमाकिरन्तु
कुर्वन्तुदूरमनिशं दुरितान्समतात्।
नमस्तेवास्तुदेवेश सर्वदोषहरोभव
शान्तिम्कुरुसुखंदेहिसर्वान्कामान् प्रयच्छमे।
मंगलाष्टकम्
धेनुर्वत्साप्रयुक्तावृषगजतुरगादक्षिणावर्त्तवन्हिः।
दिव्यस्त्रीपूर्णकुम्भद्विजनृपगणिकाःपुष्पमालापताका।
सद्योमत्स्यंघृतंवादधिमधुरजतंकाञ्चनंशुक्लधान्यं।
मुक्तामाणिक्यलाजाःशुकपिकनकुला: कुर्वन्तुतेमंगलम्।
ईशानोगिरिशोमृडःपशुपतिःशूलीशिवःशंकरो।
भूतेशःप्रमथाधिपःस्मरहरोमृत्युञ्जयःधुर्जटिः।
श्रीकण्ठोवृषभध्वजोहरभवोगंगाधरस्त्र्यम्बकः।
श्रीरुद्रःसुरवृन्दवन्दितपदःकुर्वन्तुतेमंगलम्।
ब्रह्मावेदपतिःशिवःपशुपतिःसूर्योग्रहाणांग्रहाणांपतिः।
शक्रोदेवपतिर्हुतपतिःस्कन्दश्चसेनापतिः।
विष्णुर्यज्ञपतिर्यमःपितृपतिःशक्ति:पतीनांपतिः।
सर्वेतेपतयःसुमेरुसहिताःकुर्वन्तुतेमंगलम्।
गंगासिन्धुसरस्वतीचयमुनागोदावरीनर्मदा।
कावेरीसरयूर्महेन्द्रतनयाश्चर्मण्वतीदेविका।
क्षिप्रावेत्रवतीमहासुरनदीख्यातागयागण्डकी।
पुण्या:पुण्यजलैःसमुद्रसहिताःकुर्वन्तुतेमंगलम्।
लक्ष्मीःकौस्तुभपारिजातकसुरा धन्वन्तरिश्चन्द्रमा:।
धेनुःकामदुधासुरेश्वरगजोरम्भादिदेवाङ्गनाः।
अश्व:सप्तमुखोविषंहरिधनुःशंखोमृतंचाम्बुधेः।
रत्नानीतिचतुर्दशप्रतिदिनंकुर्वन्तुतेमंगलम्।
लक्ष्मीस्ते पंकजाक्षीनिवसतिसदने भारतीकण्ठदेशे।
वर्धन्तांबन्धुवर्गैःप्रवलरिपुगणा:यान्तुपातालमूले।
देशेदेशेचकीर्त्ति प्रसरतुभवतांकुन्दपुष्पंचशुभ्रं।
जीवन्तुपुत्रपुुत्रै:सकलगुणयुतैःस्वस्तितेदीर्घमायुः।
ब्रह्मादक्षोकुवेरोयमवरुणमरुद्वन्हिचन्द्रेन्द्ररुद्राः।
शैलानद्य:समुद्रागहगणमनुजादैत्यगन्धर्वनागाः।
द्विपानक्षत्रतारारविवसुमुनयो व्योमभूरश्विनौच।
सल्लीनायस्यसर्वेवपुसितभगवान् पातुनोविश्वरूप:।
भास्वद्रत्नाढ्यमौलिस्फुरदधररुचा रंजितश्चारुकेशो।
भाश्वान् योदिव्यतेजःकरकमलयुतंस्वर्णवर्ण प्रभाभिः।
विश्वाकाशावकाश ग्रहपतिशिखरे भातियश्चोदयाद्रौ।
सर्वानन्दप्रदाता र्धरहरनमितःपातुमांविश्वचक्षुः।
झिल्लीझर्झरिका मृदंगपटहो भेरीच शंखध्वनी।
वीणातुम्बुरु राणकश्च पणहो घण्टारवोघर्घरः।
तालःकाहाी दुन्दुभि च डमरुर्ढक्का च वंशिध्वनी।।
एतेवाद्यगणाःसुघोष सहिताकुर्वन्तुते मंगलम्।
वेदाश्चोपनिषद्-गणाश्चविविधा:सांगाःपुराणान्मिताः।
वेदान्ताअपिमन्त्रतन्त्रसहितास्तर्कस्मृतीनांगणाः।
काव्यालंकृति नीतिनाटकगणाः शब्दाश्चनानाविधा:।
श्रीविष्णोर्गुणराशि कीर्तनकरा: कुर्वन्तुते मंगलम्। लक्ष्मीर्यस्यपरिग्रहःकमलभूःसूनुर्गरुत्मान्रथः।
प्रौत्रश्चन्द्रविभूषणःसुरगुरुःशेषश्चशय्यासनः।
ब्रह्माण्डंवरमन्दिरं सुरगणा यस्यप्रभो:सेवका:।
सत्रैलोक्य कुटुम्बपालनपरः कुर्यात्सदा मंगलम्।
ब्रह्मावायु गिरीश शेषगरुडा देवेन्द्रकामौगुरु।
श्चन्द्रार्कौ वरुणानलौमनुयमौ वित्तेशविघ्नेश्वरौ।
नासत्यौ निर्ऋति मरुद्गणयुता: पर्जन्यमित्रादयः।
स स्त्रीकाःसुरपुंगवाः प्रतिदिनं कुर्वन्तुते मंगलम्।
विश्वामित्र पराशरौर्व भृगवोगस्त्यःपुलस्त्यःऋतुः।
श्रीमानत्रिमरीचि कौत्सपुलहाः शक्तिर्वशिष्ठोङ्गिराः।
माण्डव्यो जमदग्निगौतम भरद्वाजादयस्तापसा:।
श्रीमद् विष्णु पदाब्जभक्तिनिरताः कुर्वन्नुते मंगलम्।
आदित्यादि नवग्रहाः शुभकरा मेषादयो राशयो।
नक्षत्राणि सयोगकाश्च तिथयस्तद्देवता स्तद्गणाः।
मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयः।
सर्वेस्थावर जंगमा: प्रतिदिनं कुर्वन्तुते मंगलम्।
मान्धाता नहुषोम्बरीष सगरौराजापृथुर्हैहयः।
श्रीमान्धर्मसुतो नलोदशरथो राम ययातिर्यदुः।
इक्ष्वाकुश्च विभीषणश्च भरतश्चोत्तानपादध्रुवा।
वित्याद्या भुवि भूभुजःप्रतिदिनं कुर्वन्तुते मंगलम्।
कल्याणानि दिवामणिःसुललितां कान्तिम्कलानांनिधि
र्लक्ष्मीक्ष्मातनयो बुधश्चवुधतां जीवश्चिरं जीविताम्।
साम्राज्यंभृगुजोर्कजोविजयतां राहुर्बलोत् कर्षताम्।
केतुंक्षयतु तस्य वांछितमियं पत्रीयदीयोत्तमा।
येनोत्पाट्यसमूल मन्दरगिरिछत्रीकृतोगोकुले।
राहुर्येन महाबलीसुररिपु: कायार्धशीर्षीकृतः।
कृत्वात्रीणिपदानि येनवसुधा वद्धोवलिर्लीलया:।
सत्वां पातुयुगेयुगेयुग पतिस्त्रैलोक्यनाथोहरिः।
जय श्री राम
पंडित शिवम द्विवेदी

Address


Telephone

+919098670740

Website

Alerts

Be the first to know and let us send you an email when Pandit shivam shastri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Event Planning Service?

Share